五蕴皆空 Emptiness Form
  歌手:白天不亮
  所属专辑:共生频率Symbiotic Frequency
  发行时间:2024.04.30
  发行公司:共生频率Symbiotic Frequency
作词 : 白天不亮
作曲 : 白天不亮
प्रज्ञापारमिताहॄदय सूत्रं
॥ नमः सर्वज्ञाय ॥
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां
चरमाणो व्यवलोकयति स्म ।
पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।
रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।
यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।
एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।
इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा
अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।
तस्माच्चारिपुत्र शून्यतायां न रूपं
न वेदना न संज्ञा न संस्कारा न विज्ञानं ।
न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो
यावन्न जरामरणं न जरामरणक्षयो
न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।
तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य
विहरत्यचित्तावरणः ।
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।
त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्
आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।
तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो
महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।
सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः
तद्यथा ।
गते गते पारगते परसंगते बोधि सवाहा ॥
इति प्रञापारमिताहृदयं समाप्तम् ॥

  • 最新发布专辑推荐
←回首页  m.geci9999.com   回顶部 ↑
流行歌曲歌词免费下载 电脑版